#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00007 Uniform title: āṣṭaprakaraṇa nādakārikā Main title: āṣṭaprakaraṇam nādakārikā Secondary title: ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ Author : rāmakaṇṭha Commentator : aghoraśiva Editor : kṛṣṇa śāstrī Description: E-text of the nādakārikā from the ratnatraya bhogakārikā nādakārikā mokṣakārikā paramokṣanirasakārikāḥ in the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 . Publisher : śivāgama siddhānta paripalana saṅgham Publication year : 1925 Publication city : Publication country : India #################################################### नादकारिका भट्ट-रामकण्ठ-प्रणीता अघोरशिवाचार्यकृतव्याख्यासहिता बुद्ध्यस्मितामनोभ्यो विद्यातो रागतः कलायाश्च | मायापुंशक्तिभ्यो नादोऽन्यो दृश्यते ध्वनिभ्योऽपि || १ || नादातीतं शिवं नत्वा नादज्ञानप्रसिद्धये | श्रीरामकण्ठरचितां व्याख्यास्ये नादकारिकाम् || अस्मिता अहङ्कारः | ततश्च बुद्ध्यादीनां मायान्तानां तत्त्वानां स्वकार्यैरेव सिद्धेः कार्यान्तरहेतुत्वे च प्रमाणाभावात् पुरुषस्य तच्छक्तेश्चाविकारित्वेन वाक्समवायायोगाद् ध्वनीनां च स्थूलानामुत्पत्त्यपवर्गयोगित्वेन कारणान्तरापेक्षित्वाद् अपिशब्देन तदुद्भूतानां वर्णानां च क्रमभावित्वेनाभिधायकत्वानुपपत्तेस्तत्कारणत्वेन नादो दृश्यते, प्रमाणेन निश्चीयत इत्यर्थः || १ || तथा हि- श्रोत्रग्राह्या वर्णा उच्चरितध्वंसिनः क्रमस्थितयः | अपरस्परोपकारादविशिष्टा नार्थवाचका युक्ताः || २ || ननु पदान्येव तावत्प्रकृतिप्रत्ययविभागेनार्थप्रतीतिकारणानि भवन्तु, वाक्यमे(व) वा विशिष्टक्रियाकाराकान्वयं (रकान्वितं) तद्धेतुत्वेनास्तु, अत आह- न च वर्णव्यतिरिक्तं पदमन्यच्छ्रूयतेऽथ वाक्यं वा | पदवाक्यैकदेशभूतानां वर्णानां क्षणविध्वंसित्वेन परस्परोपकारकत्वाभावस्योक्तत्वात्, तद्व्यतिरिक्तयोश्च पदवाक्ययोर्भेदेनादर्शनान्न तयोरप्यभिधायकत्वमिति प्रत्यक्षनिराकृतत्वेनानुमानेनापि न तयोः सद्भाव इत्याह यच्चाक्षमिति निषिद्धं तत्सदिति निषिध्यतेऽन्यतो ज्ञातुम् | एतदेवाशङ्कापूर्वकं प्रपञ्चयति- गौरिति नामादिपदं श्रोत्रग्राह्यं सदस्ति चेन्नैवम् | न गकारौकारविसर्जनीयबाह्यं यतोऽन्यदत्रास्ति || ४ || नामादीत्यादिग्रहणाद् रक्तेत्यादिविशेषणपदम्, गच्छतीत्यादिक्रियापदं च गृह्यते || ४ || ततश्च- तेषां युगपदभावात् परोपलम्भे न पूर्वयोर्भावः | प्राप्ताद्विसर्जनीयात् खुरकम्बललक्षणा न चिद्व्यक्तिः || ५ || चिद्व्यक्तिरर्थसंविदुदयः | केवलाद् विसर्जनीयात् सास्नादिप्रतिपत्तौ अश्वः, पुरुषः इत्यादावपि स्यादिति भावः || ५ || नन्वस्तु केवलाद् विसर्जनीयान्नार्थबुद्धिः, पूर्ववर्णजनितसंस्कारयुक्तात्तु भवेदेव, यतो वर्णानां क्षणविध्वंसेऽपि न तत्संस्कारनाशः, कालान्तरे स्मृतिदर्शनादित्याशङ्कते- अथ चेद् विसर्जनीयात् पूर्वाक्षरजातसंस्कृतिसहायात् | इष्टैव वाच्यबुद्धिरविशिष्टाद् या न संभवति || ६ || परिहरति- नैतत् संस्कारा अपि यैर्बुद्धौ पूर्वमाहितास्तेषु | विज्ञानहेतवः स्युर्न ततोऽर्थे धीः प्रकल्प्यते येन || ७ || संस्कारा हि यैरेव पूर्वानुभूतैरर्थैर्बुद्धावारोपिताः, तेष्वेव घटादिषु स्मृतिहेतवो दृष्टाः, नाननुभूतेषु घटादिषु | ततोऽत्रापि यैर्वर्णैस्ते बुद्धावाहितास्तेष्वेव ज्ञानहेतवो युक्ताः, नार्थ इति पदस्य वाक्यस्य वा नार्थप्रतिपादकत्वं संभवति | यदाहुः संस्काराः खलु यद्वस्तुरूपप्रख्याप्रभाविताः | विज्ञानहेतवस्तत्र ततोऽर्थे धीर्न कल्प्यते || इति | स्मर्यमाणानुभूयमानवर्णसमूहात्मकं पदमभिधायकमिति चेत्, तन्न, स्मर्यमाणानां प्रदीपानामर्थप्रकाशकत्वादर्शनात् | ननूक्तवद्वर्णानामर्थप्रतिपादकत्वासंभवात् तदन्यथानुपपत्त्या तदभिव्यङ्ग्योऽन्य एवाविनिर्भक्तो मायूराण्डरसवदनेकवर्णावभासकःक्रम एव पदात्मा पदव्यतिरिक्तश्च वाक्यस्वभावः समस्तस्य जगतो युगपत्क्रमेण वाऽर्थप्रतीतिहेतुत्वाद् व्यापको नित्यश्च स्फोटोऽभ्युपगन्तव्यः, यतः स एव व्यवहर्तॄणामर्थं स्फुटयतीति वैयाकरणाः | तदेतन्नोपपद्यते, तथाहि तत्र यत्तावदुक्तं वर्णव्यतिरिक्तः स्फोट इति, तदयुक्तम्, न वर्णव्यतिरेकेण तस्य स्फोटस्य तद्ग्राहकयोर्मध्ये स्थितिरुपपद्यते | यतः स हि वर्णेभ्यो भिन्नो वा स्यादभिन्नो वा ? न तावद्भिन्नः, वर्णव्यतिरेकेण तस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धेः, शशविषाणादेरिव | न चानुमानात् स्थितिरुपपद्यते, तस्य प्रत्यक्षनिराकृतत्वात् | न चोपलब्धिप्राप्तत्वं तस्यासिद्धमिति वक्तव्यम्, ज्ञापकत्वात् | कारको हीन्द्रियादिः शक्त्यैवाज्ञातोऽपि कार्यं जानाति करोति, संस्कारवद्बीजादिवच्च | ज्ञापकस्याक्षिनिकोचादेरिव ज्ञापकत्वस्यासंभवान्नानुमानादनवस्था | नाज्ञापकश्च स्फोटोऽभ्युपगन्तव्यः, अक्षिनिकोचादिवदग्रतः संबन्धस्याज्ञापकत्वादिति कथमसाविन्द्रियादिवदनुपलभ्यो विकल्पयितुं शक्यते | यदाऽभिन्नः, तदा वर्ण एव स्फोटः, न तु तेभ्यो भेदेनावस्थित इति हस्तः कर इतिवत् स्फोटो वर्ण इति समा श्रुतिः, एकार्थाभिधानात् | ततो न तद्भेदादत्रार्थभेदः | तेन चार्थबुद्धिरुपपद्यते | यदप्युक्तं वर्णव्यङ्ग्य इति, तदप्ययुक्तम्, स्फोटो हि बहुभिर्वर्णैरभिव्यक्तोऽर्थप्रतीतिहेतुः, स्यात्, एकैकेन वा ? यदि बहुभिरभिव्यङ्ग्यः, तदा तेषामुच्चरितध्वंसित्वेन विसर्जनीयकाले गकारौकाराभावान्न विसर्जनीयमात्रात् तदभिव्यक्तिरिति पूर्वोक्तो दोषः | अथ पूर्वसंस्कारसहितोऽन्त्यो वर्णस्तद्व्यञ्जक इष्यते, तत्रापि स एव दोष इति केन हेतुनाऽत्यन्ताप्रसिद्धः स्फोटः कल्प्यते | अथ द्वितीयः, गकारादिना गोगवयगगनादिस्फोटानां बहूनामभिव्यक्तितो विशेषाभावादनेकार्थप्रतिपत्तिप्रसङ्गः | किञ्च, विभुत्वे चास्यैकपुरुषोच्चारितैर्वर्णैरभिव्यक्तिमत्त्वे सति विशेषाभावाद् देशान्तरेऽपि प्रमातृणामर्थप्रतिपत्तिः स्यात्, तथा कालान्तरेऽपि नित्यत्वेनाधेयाविशेषत्वात् | न च तथाप्युच्यते | ततो न विभूर्नित्यो वा कश्चिदर्थप्रतिपादको युक्तः, नितरामेव स्फोट इति || ७ || प्रकारान्तरेण पराभिप्रायमाह- तद्बुद्ध्यधिरोहपदं क्रमवृत्तस्य क्रमेण विज्ञानम् | वाचकमिष्टमदुष्टं हेतुश्चेत् स्थूलशब्दजातस्य || ८ || व्यक्तं हि तावत् खुरकम्बलादिलक्षणमर्थं बुद्ध्याऽध्यवस्य तदनुगुणं गौरित्यादिपदं चिन्तयैवानुसन्धाय ततः स्थूलशब्दं प्रयुङ्क्ते | ततश्च बुद्ध्यदिरोहितपदबुद्ध्याधिरूढगवादिपदसहकृतं विवक्षिततत्तद्गोगवयाद्यर्थक्रमेण तत्तदर्थाकारमुत्पद्यमानं तत्तत्स्थूलशब्दोच्चारणकारणं तत्तद्बुद्धिवृत्त्यात्मकमेव विज्ञानं क्रमेण वास्य गवादेरर्थस्यादुष्टमभिधायकमिष्यतामिति || ८ || एतदपि निराकरोति- अस्त्वित्थं वाचकता वाच्येभ्यो नैव भिद्यते येन | तद्वस्तु निरवशेषमविशेषेणैव बुद्ध्युपारोहि || ९ || इत्थं परामर्शज्ञानस्यान्तरस्य वाचकताऽस्तु | एवं सति वाच्यवाचकयोरभेदः | उभयोरपि सास्नादिरूपत्वेनैककारणत्वात् तत्सास्नादिरूपं वस्तु निरवशेषं बाह्याकारविशेषेण बुद्ध्युपारूढं यतः || ९ || अत्र भेदमाशङ्कते- वाचकतैव विशेषो वाच्याच्चेत् तद्विमर्शरूपत्वात् | अस्य विमृश्या वाच्या भेदाभेदैरिदं च सत् किन्तु || १० || अयमेवास्य बुद्ध्याकारस्य वाचकस्य वाच्याद्वाह्याकाराद्-विशेषो यद्वाह्याकारपरामर्शरूपत्वाद्वाचकत्वम् | ततश्च वाचकैः परामर्शज्ञानभेदैर्गवादिलक्षणा बाह्याकारभेदा विमृश्यमाना वाच्या भवन्तीति विशेषः | अत्रोच्यते- इदं च सत् किन्त्विति || १० || रूपरसगन्धशब्दाद्यर्था येनावमृश्यतां नीताः | सोऽन्तःसंजल्पात्मा नादः सिद्धो न विषयभावेन || ११ || सत्यमस्त्येवेदं वाच्याद् भिन्नमान्तरं विमर्शात्मकं विज्ञानम् | तत्तु नाकारणमुत्पद्यते, कादाचित्कत्वात् | एतदुक्तं भवति- विद्धिर्हि तावद्वाह्ये चक्षुरादिना विषयीकृत एवार्थेऽद्यवसायिनी दृष्टा, नाविषयीकृते, अतिप्रसङ्गात् | ततश्चान्तरे बुद्धिः केनापि विषयीकृत एवार्थे परामर्शं करोति, अन्यथा सर्वदा सर्वार्थपरामर्शप्रसङ्गात् | तस्माद् रूपरसादयोऽर्था येन वक्तृबुद्धेः परामृश्यतां नीताः, स एवात्र नादः | अन्तः संजल्पात्मेति | आन्तरः संजल्पो बिन्द्वाकाराऽऽत्मा कार्यत्वेन विद्यते यस्य स तादृग्विधः | तस्यापि परामर्शज्ञानस्य कारणं वाचकत्वेन सिद्धो न तु विषयाकारतया परिणतः स्थूलशब्द इति | कथं पुनर्वक्तृगतो नादः प्रतिपत्तुर्वाच्यबुद्धिं जनयतीति चेत्, तदुच्चरितस्थूलशब्दाअभिव्यक्तः प्रतिपत्तृगतो नादस्तस्याऽपि वाच्यबुद्धिं जनयतीति वक्ष्यति कारिकोपसंहारे || ११ || विषयीकुर्वन् सर्वान् शब्दार्थानेष वाचको नान्यः | दृष्टं सदप्यसत् तद् यस्मादेतेन सदा परामृष्टम् || १२ || तदुक्तम् न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते | अनुविद्धमिह ज्ञानं सर्वं शब्देन जायते || (वा० प० १|११५) इति | कथं पुनः श्रीमत्पराख्ये पूर्ववर्णजसंस्कारयुक्तोऽन्त्योऽर्णोऽभिधायकः इत्युक्तम्, नादाभिव्यञ्जकत्वेनोपचारादित्यदोषः || १२ || इत्थं नादस्य वाचकत्वं प्रसाध्य पूर्वप्रतिज्ञातं बुद्ध्यादीनां तत्कारणत्वमाह- बुद्ध्याकारो नास्मान्न मनोऽहङ्कारयोः कृतिर्येन | तत्कार्यशरीरेन्द्रियविकृतेः पृथगेवमव्यक्तम् || १३ || यदेतद्वाचकत्वं तदस्मादेवोक्तात् कारणान्न बुद्ध्याकार इत्युक्तम् | न च मनोऽहङ्कारयोः पृथग्भूतम् | एवमव्यक्तमपि न वाचकत्वेनेष्टमिति शेषः, तस्य गुणकारणत्वेनैव सिद्धेः, कार्यान्तरहेतुत्वे च प्रमाणाभावादिति || १३ || अयं च- अव्यक्तत्वान्नादः सूक्ष्मः शब्दस्तु वाचकत्वेन | वाक्यपदे प्रविभिन्नः पदार्थबुद्धेरसङ्करो यस्मात् || १४ || यस्मात् प्रतिपत्तृषु पदार्थबुद्धेरसङ्करो दृश्यते, तस्मात् प्रतिपुरुषं तेषु वाक्येषु पदेषु च वाचकत्वेन भिन्नरूपोऽयं नादोऽव्यक्तत्वेन सूक्ष्मशब्दवाच्यो वाचकत्वेन स्थूलशब्दवाच्य इति || १४ || इत्थं नादस्वरूपमुक्त्वा तत्कारणभूतां महामायां प्रतिपादयितुमाह- संवेद्यते न तद्वच्चागोपालाङ्गनादिपशुवृन्दैः | बालैर्भिन्ना नादा उत्पत्त्यपवर्गयोगिनस्तेन || १५ || इह हि एकपुरुषविमर्शकाले सर्वेषां तदुदयादर्शनात् परस्परभिन्नस्वभावैः पश्वात्मभिर्हेतुभूतैः प्रत्यवस्थाभिन्ना एव नादाः संवेद्यन्ते, पदार्थबुद्ध्यन्यथानुपपत्त्या शास्त्रतश्चोपलभ्यन्ते | यदुक्तम्- आगोपालाङ्गना बाला म्लेच्छाः प्राकृतभाषिणः | अन्तर्जलगताः सत्त्वास्तेऽपि नित्यं, ब्रुवन्ति ते || इति | किमतः ? इत्यत आह- उत्पत्त्यपवर्गेति | तेन कारणेन उत्पत्तिविनाशधर्मित्वं कार्यत्वमेषां सिद्धमित्यर्थः || १५ || ततश्चैषां कार्यत्वेनोपादानकारणं वाच्यम् | तत्सिद्धो नादः परः सुमङ्गला मालिनी महामाया || १६ || समनाऽनाहतबिन्दुरघोषा वाग् ब्रह्मकुण्डलिनीतत्त्वम् | विद्याख्यं तत्त्वमित्युक्तं तैस्तैस्तदागमेष्वित्थम् || १७ || पराभिप्रायमनूद्य दूषयति- सेयमवस्था कैश्चित् पदविद्भिर्वर्ण्यते क्रियाशक्तेः | इह पुनरन्यैवोक्ता पुरुषासमवायिनी वाग् यस्मात् || १८ || यस्मात् प्रतिपुरुषस्य वाक्समवायाभावान्नादादिक्रमेण शब्दोत्पादकत्वं न युक्तम्, परिणामित्वप्रसङ्गात्; तस्मान्नैवेयमत्रोक्ता || १८ || एतदेव प्रपञ्चयति- अविकार्यत्रात्मोक्तस्तच्छक्तिश्चाप्यतो न योग्यौ तौ | बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् || १९ || तत्पुंशक्तेर्भिन्नो नादोपादानकारणत्वेन | तस्मात् प्रतिपुरुषात्तच्छक्तेश्च भिन्नाकुण्डलिनी नादकारणं सिद्धेति || १९ || यद्येवं मायैव परिणामिनी नादोपादानकारणमिष्यताम्, अत आह- अचिदपि शुद्धत्वान्मायातोऽप्यन्या तदूर्ध्वगा कथिता || २० || यदुक्तम् मायोपरि महामाया (रौ० सं० ४|२८) इति || २० || आगमप्रमाणसिद्धा चेयं शुद्धाध्वोपादानभूता महामायेत्याह- शुद्धं विद्यातत्त्वं विद्येशानां च भोगदं भुवनम् | अध्वन्युक्तं चान्यैः सदागमैः श्रेयसे च तद्धेतुः || २१ || वाग्ब्रह्मणि निष्णातश्चिद्ब्रह्माप्नोति येन कथयन्ति | यदाहुः- शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति (मै० उ० ६|२२ ) इति || २१ || किञ्च- सिद्धिर्मुक्तिश्च परा नादज्ञानक्रिया च सफलेति || २२ || कथयन्तीति पूर्वक्रियानुषङ्गः || २२ || यद्येवं नादज्ञानादेव परमुक्तिसिद्धेः कथं दीक्षैव मोचिनीति श्रीमत्स्वायंभुवादावुक्तम् | ज्ञानस्यापि दीक्षाङ्गत्वेनैव मोक्षसाधनत्वान्न केवलस्येति वक्ष्यामः | अपि च, स्थूलस्य पाशरूपस्य मायीयस्य शब्दस्य शिवादिशुद्धवस्तुप्रतिपादकत्वासंभवात् शुद्धस्य मन्त्रतन्त्रात्मनः शब्दस्य कारणत्वेनाऽप्येषा सिद्धेत्याह- मन्त्रादिकारणत्वाद् ततश्चाङ्गारस्थानीयेष्वेषु शब्देष्वभिव्यक्ता अग्निस्थानीयाः सूक्ष्मा मन्त्रशब्दाः कार्यकरा भवन्तीत्युक्तं श्रीमन्मतङ्गादौ | ततश्चायं तत्कार्यभूतः प्रागुक्तो नादः विद्यारागादिकञ्चुकाद् भिन्नम् | तत्कार्यमभिष्वङ्गाद् दृक्क्रिययोर्मीलनाच्च भिन्नं यत् || २३ || रागविद्याकलानां स्वकार्यैरेव सिद्धेः कार्यान्तरहेतुत्वे प्रमाणाभावात्, अनेक तत्त्वपरिकल्पनाभावप्रसङ्गाच्च || २३ || स महामायाजन्यो नादः परमार्थवाचको युक्तः | येन स्थूलं शब्दं मन्त्रं तन्त्रात्मकं प्रवर्तते वापि || २४ || स्थूलस्य तु तदभिव्यञ्जकत्वाद् वाचकत्वमित्युक्तम् || २४ || एतदेवोपसंहरन्नाह- सा प्रतिपुरुषं भिन्ना वाक्शक्तिर्वाचिका स्थितेति ततः | वाचकजातं निर्मायान्तरतस्तद् व्यनक्ति बाह्येऽपि || २५ || स्थूलैः शब्दैर्व्यक्ताः सूक्ष्मा नादात्मकास्ततो ध्वनयः | वाच्यविभिन्नां बुद्धिं कुर्वन्तो वर्धयन्ति जनयात्राम् || २६ || अनेनैव च क्रमेण मन्त्राः शब्दा अपि शिवादेरर्थस्याभिधायका भवन्तीत्युक्तम् || २५ २६ || इति नादसिद्धिमेनामकरोत् श्रीभट्टरामकण्ठोऽत्र | नारायणकण्ठसुतः काश्मीरे वृत्तपञ्चविंशत्या || २७ || श्रीमद्घोरशिवाचार्यजन्ययाऽपरसंज्ञया | व्याख्याता नादसिद्धिश्च प्रार्थितेन गुरुत्तमैः || ########### END OF FILE #######